________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ८४० (B)
अथ पूर्वस्थिते क्षेत्रिके क्षेत्रस्वामिनि गणावच्छेदके आचार्ये वा पश्चादन्यो बहुश्रुतस्तस्मिन् क्षेत्रे आगच्छति तर्हि स तदनुमत्या तत्क्षेत्रमुपसम्पन्न इति। तत्र क्षेत्रे क्षेत्रिकः क्षेत्रस्वामी पूर्व एव, न पश्चात्तनः ॥ १८३९ ॥
खेत्तितो जइ इच्छेज्जा, सुत्तादी किंचि गेण्हिउं । सीसं जइ मेहाविं, पेसे खेत्तं तु तस्सेव ॥ १८४० ॥
क्षेत्रिकः क्षेत्रस्वामी यदि पश्चादागतस्य समीपे किञ्चित् सूत्रादि ग्रहीतुमिच्छति, तत्र | यदि शिष्यं मेधाविनं प्रेषयति तर्हि क्षेत्रं तस्यैव पूर्वस्थितस्य, न पश्चादागतस्य ॥ १८४०॥
असती तस्विह सीसे, अणिखित्तगणे उ वाए संकमति । अह वावि अगीयत्थे, निखिंवई गुरुग न य खेत्तं ॥ १८४१ ॥
अथ तथाविधो मेधावी शिष्यो नास्ति ततस्तद्विधे तथाविधे शिष्ये असति अविद्यमाने अनिक्षिप्ते च स्वशिष्यस्य गीतार्थस्य गणे यदि सूत्रादि पश्चादागतस्य समीपे वाचयति, तर्हि
गाथा १८३८-१८४३
श्रुतनि
श्राविशेषः
८४० (B)
१. क्खिवओ-c । क्खिवइ-B3 ।।
For Private and Personal Use Only