________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् चतुर्थ उद्देशकः ८४० (A)
गमनेन साधारणं क्षेत्रम् । तथा श्रुतार्थं निश्रा श्रुतनिश्रा, सापि च यथा प्राक् आचार्यसूत्रेऽभिहिता तथाऽत्रापि भावयितव्या नवरमिदं तत्र निश्रायां नानात्वम् ।। १८३७॥
तदेवाहसाधारणट्ठिया ऊ, सुत्तऽत्थाई परोप्परं गिह्ने । वारंवारेण तहिं, जह आसा कंडुयंते उ ॥ १८३८ ॥
ते सर्वे द्विवर्गास्त्रिवर्गा वा समाप्तकल्पाः समकमेकस्मिन् क्षेत्रे यदि स्थितास्ततः साधारणं तत् क्षेत्रम्। ते तस्मिन् साधारणे क्षेत्रे स्थिता यदि यथा वारंवारेण अश्वाः परस्परं कण्डूयन्ति एवं वारेण वारेण परस्परं सूत्रमर्थं वा गृह्णन्ति, यथा- अहमद्य तव पार्श्वे गृह्णामि, कल्ये त्वं मम पार्श्वे ग्रहीष्यसि। अथवा पौरुषीप्रमाणेन मुहूर्तेर्वा वारकं कुर्वन्ति तदा यो यदा यस्य पार्श्वे गृह्णाति तस्य तावन्तं कालमाभाव्यमितरः सूत्रस्यार्थस्य वा प्रदाताऽपहरति ॥१८३८॥
अह पुव्वठिए पच्छा, अण्णो एजाहि बहुस्सुतो खेत्ते । सो खेत्तुवसंपन्नो, पुरिमिल्लो खेत्तिओ तत्थ ॥ १८३९ ॥
गाथा ४१८३८-१८४३
श्रुतनिश्राविशेषः
८४० (A)
१. भाषितव्या- वा. मो. पु. सं.॥
For Private and Personal Use Only