________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् चतुर्थ उद्देशकः ८३९ (B)
गृहेषु वसतिं प्रलोकमानौ हिण्डेते, यावता च न पूर्यते तावदितरानीतं गृह्णीतः, इदमपि वर्षाविषयं कारणिकम्। अकारणे चतुर्णां तिष्ठतां प्रायश्चित्तं चतुर्लघु ॥१८३६ ॥
सम्प्रति बहुत्वविषये गणावच्छेदकसूत्रे भावयतिएमेव बहूणं पी, जहेव भणिया उ आयरियसुत्ते । जाव उ सुयोवसंपय, नवरि इमं तत्थ नाणत्तं ॥ १८३७॥
एवमेव अनेनैव प्रकारेण । किमुक्तं भवति? यथा एकत्वे ऋतुबद्धे वर्षासु च पूर्वं सूत्रमुक्तमेवं बहूनामपि ऋतुबद्धे वर्षासु च वक्तव्यम् । भावनाऽपि च यथा बहुत्वविषये आचार्यसूत्रे भणिता तथैवात्रापि भणनीया, सा च तावद्, यावत् श्रुतोपसम्पत्। तथाहि-| तैरपि समाप्तकल्पीकरणार्थमन्योन्यनिश्रया वर्तितव्यं, परस्परोपसम्पदा इत्यर्थः । सा च निश्रा द्विविधा-गीतार्थनिश्रा श्रुतनिश्रा च। तत्र यद्गीतार्थस्य समीपे उपसम्पदनं सा गीतार्थनिश्रा। तया गीतार्थनिश्रया परस्परोपसम्पन्नत्वेन समाप्तकल्पीभूतयोईयोस्त्रयाणां वा वर्गाणां समकमा
गाथा १८३२-१८३७ क्षेत्राऽऽभवने जयणादिः
८३९ (B)
१. म्पन्नः सन् त खं.॥
For Private and Personal Use Only