________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८३९ (A
दोण्ह चउकण्ण रहसं, हवेज छक्कण्ण मो न संभवति । सिद्धं लोके तेण उ, परपच्चयकारणा तिन्नि ॥ १८३५ ॥
लोके इदं सिद्धं प्रतीतम् यथा- द्वयोश्चतुष्ककर्णं रहस्यं भवति, षट्कर्णं मो इति पादपूरणे, त्रयाणां रहस्यं न सम्भवति, तेन कारणेन परप्रत्ययकारणात् परेषां प्रत्ययोत्पादनार्थं त्रयो विहरन्ति, इतरथाऽसमर्थः स आत्मनिग्रहं कर्तुम्। त्रयोऽपि चोत्सर्गतो न कल्पन्ते तत इदमपि सूत्रं कारणिकमवगन्तव्यम् ॥ १८३५ ।।
कारणतश्च तेषां त्रयाणां तिष्ठतामियं यतनाजयणा तत्थुउबद्धे, समभिक्खाऽणुण्णनिक्खम-पवेसा । वासासु दोण्हि चिढ़े, दो हिंडे असंथरे इयरे ॥ १८३६ ॥
तत्र ऋतुबद्धे काले इयं यतना- समकं भिक्षा, समकं शय्यातरस्य समीपे वसतेरनुज्ञा, समकं विचारार्थं निष्क्रमः, समकं वसतौ प्रवेशः । वर्षासु पुनरियम्- द्वौ पश्चात्तिष्ठतः, द्वौ हिण्डेते, एतच्च संस्तरणे। असंस्तरणे इतरौ द्वौ गणावच्छेदक-तदन्यलक्षणौ वसतेः प्रत्यासन्नेषु
गाथा १८३२-१८३७ क्षेत्राऽऽभवने जयणादिः
८३९ (A)
For Private and Personal Use Only