________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
चतुर्थ
.
उद्देशकः ८३८ (A)
चोदयति शिष्यः- वर्षावासे वस्त्र-पात्राणि ग्रहीतुं कल्पन्ते काक्वा पाठ इति प्रश्नावगमः । सूरिराह-यथा कारणे पूर्वोपस्थित इत्येवंलक्षणे 'अव्यवच्छित्तिकारको भविष्यति' इत्येवंरूपे वाऽपवादतः शैक्षः कल्पते तथाऽपवादतस्तालाचरादिषु वस्त्राणि, उपलक्षणमेतत्, पात्राणि च कल्पन्ते ॥ १८३१ ॥
साहारणो अभिहितो, इयाणि पच्छाकडस्स अवयारो । सो उ गणावच्छेइयपिंडगसुत्तम्मि भणिहिती ॥ १८३२ ॥
यदुक्तं प्राक् साधारणं शैक्षं वक्ष्ये, 'द्विविधं च पश्चात्कृतम्'[ गा.१८१८] इति तत्र : साधारण: शैक्षोऽभिहितः, इदानीं पश्चात्कृतस्यावतारः प्रस्तावः। स तु गणावच्छेदक पिण्डकसूत्रे गणावच्छेदकबहुत्वसूत्रे भणिष्यते ॥ १८३२ ।।
१८३२-१८३७ तदेवमाचार्योपाध्यायगतान्यप्येकत्व-बहत्वसूत्राणि भावितानि। सम्प्रति गणावच्छेदकैकत्व- -
क्षेत्राऽऽभवने
जयणादिः बहुत्वसूत्राणि बिभावयिषुराहएमेव गणावच्छे, एगत्त-पुहुत्त दुविहकालम्मि ।
८३८ (A) जं एत्थं नाणत्तं, तमहं वुच्छं समासेणं ॥ १८३३॥
गाथा
For Private and Personal Use Only