________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ८३७ (A)
शिष्याणामुपस्थितानामेवं विभाषा कर्तव्या। एवमेव अनेनैव प्रकारेण वस्त्रपात्रेऽपि वस्त्रपात्रादिलाभेऽपि द्रष्टव्यम्। तच्च वस्त्र-पात्रादिकं तालाचरा वा दधुः सेवका वा वणिजो वा, एतेषां प्रायो वर्षासु दानसम्भवात् ॥ १८२७॥ एनामेव गाथां व्याचिख्यासुः प्रथमतः "राइणिया थेराऽसति'' इति व्याख्यानयतिरायणियस्स उ एगं, दलंति तुल्लेसु थेरगतरस्स । तुल्लेसु जस्स असती, तहा वि तुल्ले इमा मेरा ॥ १८२८ ॥
एकं शिष्यमुपस्थितं रात्निकस्य रत्नाधिकस्य ददति । अथ सर्वे समरत्नाधिकास्ततस्तुल्येष रत्नाधिकेषु यः स्थविरतरस्तस्य। अथ सर्वे स्थविरतरास्तर्हि तुल्येषु स्थविरतरेषु यस्य शिष्याणामभावस्तस्य। अथ शिष्याभावेनापि सर्वे तुल्यास्तत इयं मर्यादा ॥ १८२८॥
तामेवाहसकुलगा कुलथेरे, गणथेरे गणिच्चएयरा संघे । रायणियथेर असति, कुलादिथेराण वि तहेव ॥ १८२९ ॥
गाथा १८२५-१८३१
एकशैक्षे सामाचारी
८३७ (A)
For Private and Personal Use Only