________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
८३६ (A)
܀܀܀܀܀
www.kobatirth.org
अणुवसंते व सव्वेसिं, सलद्धि कहणा पुणो ।
राइणियादि उवसंतो, तस्स सो मा य नाउ ।। १८२५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथ यादृशं प्रथमेन कथितं तादृशेऽन्यैरपि कथिते स नोपशाम्यति न प्रव्रज्याभिमुखीभूतो भवति, ततस्तस्मिन्ननुपशान्ते पुनः कथना धर्मस्य सर्वेषां रालिकादीनां रत्नाधिकप्रभृतीनां स्वलब्ध्या यथास्वशक्तितुलनया । एवं च कथने यस्य समीपे स उपशान्तस्तस्याभवति । कस्मादेवं कथना ? इति चेद् अत आह— मा सोऽनुपशान्तः सन् नश्यतु संसारं परिभ्रमत्विति
कृत्वा ॥ १८२५ ॥
अथ सर्वे आचार्या एकत्र मिलितास्तिष्ठन्ति, स च शैक्षक एक कञ्चन पृच्छतिकोऽत्राचार्यः ?, तत एवं कथनीयम् - सर्वे बहुश्रुताः सर्वे चाचार्याः सर्वे प्रधाना इति । एवमुक्ते यदि शैक्षको ब्रूते - यं जानीथ यूयमाचार्यं तं मम दर्शयत । तत्राहजं जाणह आयरियं, तं देह ममं ति एव भणियम्मि । जइ बहुया ते सीसा, दलंति सव्वेसिमेक्केक्कं ॥ १८२६ ॥
For Private and Personal Use Only
गाथा
१८२५ - १८३१ एकशैक्षे
* सामाचारी
८३६ (A)