SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री . व्यवहार-1 सूत्रम् चतुर्थ उद्देशकः ८३५ (B) .. धर्मं श्रोतुमिच्छामि युष्माकं पार्श्वे । जे इति पादपूरणे । श्रुते च धर्मे रुचिते प्रतिभासिते सति प्रव्रजिष्यामि। एवमुक्ते कथना धर्मस्य भवति। कः कथयति? इति चेद्, अत आहयः लब्धितः कथनलब्धेरहीनः स प्रथमं साधयति कथयति। अथान्येऽपि द्वि-त्रिप्रभृतयो लब्धितः समानास्तर्हि यो रत्नाधिकस्तेन कथयितव्यम् ॥ १८२३ ॥ पुणोवि कहमिच्छंते, तत्तुल्लं भासते परो । एवं तु कहिए जस्सा, उवट्ठायति तस्स सो ॥ १८२४ ॥ अथ पुनरपि कथां धर्मकथां श्रोतुमिच्छामि इति ब्रवीत, ततः पुनरपि कथां धर्मकथां । श्रोतुमिच्छति अपरः अन्यो भाषते, परं तत्तुल्यं तावन्मात्रमेवमपरवेलायामन्योऽपि । उक्तं च "जारिसं पढमेण कहियं तारिसं सेसेहिं वि कहेयव्वं' इति— एवं प्रथमकथनसदृशतया सर्वैः कथिते यस्योपतिष्ठति तस्य स आभवति । अथान्ये विशेषेण विशेषतरेण कथयन्ति तर्हि ते तं न लभन्ते, किन्तु यो रत्नाधिकस्तेषां तस्य स आभवति ॥ १८२४॥ गाथा १८१९-१८२४ साधारणशैक्षे सामाचारी ८३५ (B) १. अहं पुन मो. सं. ॥ २. प्रदीपकथन वा. मो. पु. सं. P.B3॥ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy