________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः
साहारणट्ठियाणं, सेहे पुच्छंतुवस्सए जो उ । दूरत्थं पि हु निययं, साहति ऊ तस्स मासगुरू ॥ १८२० ॥ विचारादिविनिर्गतं साधुं दृष्ट्वा कोऽपि शैक्षकः पृच्छति कुत्र साधूनां वसतयः? इति; एवं साधारणस्थितानां साधारणक्षेत्रावस्थितानामुपाश्रयान् पृच्छति शैक्षे यः निजकमात्मीयमुपाश्रयं दूरस्थम्, अपिशब्दात् प्रत्यासन्नं वा साधयति कथयति तस्य हुः निश्चितं प्रायश्चित्तं मासगुरुः ॥१८२०॥
८३४ (B)
कथं पुनः कथनीयम् ? इत्याहसव्वे उद्दिसियव्वा, अह पुच्छे कयरो एत्थ आयरितो । बहुसुय तवस्सि पव्वायगो य? तत्था वि तहेव ॥ १८२१ ॥
सर्वे यथाक्रममुपाश्रया उद्देष्टव्याः। यथा- अमुकस्याचार्यस्योपाश्रयोऽमुकप्रदेशे अमुक- ८३४ (B) || स्यामुके इति। एवं कथिते यत्र याति तेषामाभवति। अथ स पृच्छेत् कतरोऽत्राचार्यो बहुश्रुतो ||
गाथा १८१९-१८२४ साधारणशैक्षे सामाचारी
For Private and Personal Use Only