SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ८३४ (A) ܀܀ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एको द्विवर्ग एकः पञ्चवर्गः इत्यादिरूपेण पिण्डिता द्विकपिण्डिताः, तेषामेकद्विकपिण्डितानाम्, अपिशब्दात् त्रिकचतुष्कादिपिण्डितानां चाऽवग्रह आभवति, न शेषाणामसमाप्तकल्पस्थितानाम्। तथा साधारणं शैक्षं वक्ष्ये । साधारण: शैक्षो यस्याभवति तस्य तं वक्ष्ये । तथा द्विविधं च गृहस्थ-सारूपिकभेदतो द्विप्रकारं च पश्चात्कृतमुपरि गणावच्छेदकपृथक्सूत्रे [गा. १८५२] वक्ष्यामि ॥ १८१८ ॥ तत्र साधारणं शैक्षं वक्तुमाह अक्खेत्ते जस्सुवट्टितो, खेत्ते वा समठियाण साहारे । वायंतियववहारे कयम्मि जो जस्सुवट्ठाइ ॥ १८१९ ॥ अक्षेत्रे स्नानादिप्रयोजनतः क्वाप्येकत्र मिलितानां यो यस्योपतिष्ठते शैक्षः स तस्याभवति । अथवा सममेककालं ये स्थिताः पृथक् पृथक् समाप्तकल्पास्तेषां समस्थितानां तत्क्षेत्रं साधारणम्, तस्मिन् साधारणे क्षेत्रे समकस्थितानाम् । अथवा पश्चादागता अप्येवं व्यवस्थां कृत्वा प्रविष्टाः- यद् यस्योपतिष्ठते तत् तस्याऽऽभवतीति । तत एवं वाचन्तिके व्यवहारे कृते, यो यस्योपतिष्ठते स तस्याभवति ॥ १८१९ ॥ For Private and Personal Use Only गाथा | १८१९-१८२४ साधारणशैक्षे सामाचारी ८३४ (A)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy