________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः
अधुना घोटककण्डूयितमधिकृत्याहदोण्हं तु संजयाणं, घोडगकंडूइयं करेंताणं । जो जाहे जं पुच्छइ, सो ताहे पडिच्छतो तस्स ॥ १८१५ ॥
द्वयोः संयतयोः घोटककण्डूयितमिव घोटककण्डूयितम् परस्परं प्रच्छनमित्यर्थः, तत् | कुर्वतां यो यदा यं पृच्छति स तदा तस्य प्रतीच्छकः, इतरः प्रतीच्छ्यः । यावच्च यः प्रतीच्छ्यस्तावत्तस्याभवति, न शेषकालमिति ॥ १८१५ ॥
८३३ (A)
उपसंहारमाह
गाथा १८१३-१८१८ समाप्तकल्पे आभवनविधिः
एवं ता असमत्ते, कप्पे भणितो विहि उ जो एस । एत्तो समत्तकप्पे, वुच्छामि विहिं समासेण ॥ १८१६ ॥
एवं तावदसमाप्ते कल्पे यो विधिर्भवति स एष भणितः। अत उर्ध्वं समासेन समाप्तकल्पे विधिं वक्ष्यामि ॥ १८१६ ।।
८३३ (A)
For Private and Personal Use Only