SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ८३२ (B) आभवनस्योत्तरोत्तरसङ्क्रान्त्याऽन्तिमेऽवस्थानाद्। एतच्चावलिकायामपि द्रष्टव्यम्। तथा यस्य पार्श्वे धर्मकथाशास्त्राणि वादशास्त्राणि वा उज्ज्वालयति अधीते वा तस्य पाठकस्याऽऽभवति, न पाठ्यमानस्य। तथा बहुश्रुततरोऽपि यद्यन्यस्य समीपे प्रकीर्णकश्रुतमधीते तदा तस्य प्रकीर्णकश्रुतवाचनाचार्यस्याऽऽभवति, न बहुश्रुततरस्य। किं बहुना? यो यस्य समीपे पठत्युज्ज्वालयति वा तस्य सत्कमाभाव्यमितरो वाचनाचार्यो हरतीति ॥ १८१३ ॥ अथावलिकाया मण्डल्याश्च कः प्रतिविशेष? इत्यत आहछिण्णाछिण्णविसेसो, आवालियाए उ अंतए ठाति। मंडलिए सट्ठाणं, सच्चित्तादीसु संकमति ॥ १८१४ ॥ गाथा आवलिका-मण्डल्योः परस्परं छिन्नाछिन्नरूपो विशेषः, आवलिका छिन्ना विविक्ता |४१८१३-१८१८ एकान्ते भवति। मण्डलिका त्वछिन्ना, "आवलिय तत्थ च्छिन्ना मंडलिया होइ अच्छिन्ना | समाप्तकल्पे आभवनविधिः उ' [ ] इति वचनात् । एतदेव सुव्यक्तमाह- आवलिकायामुपाध्यायः अन्तः मध्ये विविक्ते प्रदेशे तिष्ठति। मण्डल्यां पुनः स्वस्थानमाभवनं च पाठयितरि सक्रामति ८३२ (B) सचित्तादिषु तत्क्षेत्रगत-सचित्तादिविषयम् ॥१८१४ ॥ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy