SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ८३२ (A) www.kobatirth.org तदेवमावलिकामधिकृत्योक्तम्। अधुना मण्डलीमधिकृत्याह एमेव मंडलीए वि, पुव्वाहियनट्ठ धम्मकहि वादी ( ? दे ) । अहवा पइण्णगसुए, अहिज्जमाणे बहुसुते वि ॥ १८१३ ॥ Acharya Shri Kailassagarsuri Gyanmandir यथा अधस्तादावलिकायामुक्तमेवमेव मण्डल्यामपि द्रष्टव्यम् । सा मण्डली क्व भवति ? इति चेत्, उच्यते— पूर्वाधीते नष्टे उज्वाल्यमाने, धर्मकथायां धर्मकथाशास्त्रेषु, वादे वादशास्त्रेषु उज्वाल्यमानेष्वधीयमानेषु वा, अथवा प्रकीर्णक श्रुते अधीयमाने बहुश्रुतेऽपि बहुश्रुतविषयेऽपि मण्डली भवति । तत्राप्याभाव्यमावलिकायामिव । अथ कथमावलिकायामिव मण्डल्यामपि द्रष्टव्यम् ? इति चेत्, उच्यते- एक एकस्य पार्श्वे पूर्वाधीतं नष्टमावश्यकमुज्वालयति, आवश्यकवाचनाचार्यः पुनस्तस्य समीपे दशवैकालिकम्, दशवैकालिकवाचनाचार्यस्याभवति इत्यादि सर्वं तथैव । तथा एक एकस्य पार्श्वे आवश्यकं नष्टमुज्वालयति, एषोऽप्यावश्यकवाचनाचार्योऽन्यस्य समीपे दशवैकालिकम्, दशवैकालिकवाचनाचार्योप्यपरस्य समीपे उत्तराध्ययनानि, उत्तराध्ययनवाचनाचार्योऽप्यन्यस्य समीपे आचाराङ्गम्, एवं यावद् विपाकश्रुतवाचनाचार्यः पूर्वाधीतं नष्टमन्यस्य पार्श्वे दृष्टिवादमुज्ज्वालयति, दृष्टिवादवाचनाचार्यस्याऽऽभवति, न शेषाणाम्, For Private and Personal Use Only गाथा १८१३-१८१८ म आभवनविधिः ८३२ (A)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy