________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्प्रति येन कारणेन सूत्रादर्थो बलीयान् तदभिधित्सुराह
व्यवहार
सूत्रम् चतुर्थ उद्देशकः
४
८३१ (B)|
तित्थगरत्थाणं खलु अत्थो, सुत्तं तु गणहरत्थाणं । अत्थेण य वंजिज्जइ, सुत्तं तम्हा उ सो बलवं ॥ १८११॥
अर्थः खलु तीर्थकरस्थानम् तस्य तेनाभिहितत्वात्। सूत्रं तु गणधरस्थानम् तस्य तैईब्धत्वात् । अर्थेन च यस्मात्सूत्रं व्यज्यते प्रकटीक्रियते, तस्मात्सः अर्थः सूत्राद् बलवान्॥१८११॥
अथ कस्मात् शेषार्थेभ्यः छेदसूत्रार्थो बलीयान् ? इत्यत आहजम्हा उ होइ सोही, छेयसुयत्थेण खलियचरणस्स । तम्हा छेयसुयत्थो, बलवं मोत्तूण पुव्वगयं ॥ १८१२ ॥
यस्मात् स्खलितचरणस्य स्खलितचारित्रस्य छेदश्रुतार्थेन शोधिर्भवति, तस्मात्पूर्वगतमर्थं मुक्त्वा शेषात्सर्वस्मादप्यर्थात् छेदश्रुतार्थो बलवान् ॥१८१२ ।।
गाथा १८०८-१८१२
सूत्राऽर्थछेदसूत्रणां बलवत्तादिः
८३१ (B)
For Private and Personal Use Only