SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ८३१(A) ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ तथा चाह- पुव्वगयमित्यादि, यदि पूर्वगतं सूत्रं खलु अधस्तनादर्थाद् भवति बलवत् किमङ्ग सूत्रात्? सुतरामधस्तनात् सूत्राद् बलीय इत्यर्थः। तद्यथा- एक एकस्य पार्श्वे आवश्यकस्य सूत्रमर्थं तदुभयं वाऽधीते, तस्य समीपे पुनरावश्यकसूत्राऽर्थ-तदुभयवाचनाचार्य: पूर्वगतं सूत्रमधीते, आवश्यकसूत्रादिप्रतीच्छकस्याभवति। एवं तावद्वाच्यं यावदष्टाशीतिसूत्राणि। पूर्वगतसूत्राच्च पूर्वगतार्थो बलीयान्। तत एक एकस्य पार्श्वे पूर्वगतं सूत्रमधीते, तस्य समीपे पूर्वगतसूत्रवाचनाचार्यः पूर्वगतमर्थं, पूर्वगतसूत्रप्रतीच्छकस्याभवति ॥१८०९ ॥ अथ किं कारणं शेषात् सूत्रादर्थाच्च पूर्वगतं सूत्रं बलीयः? तत आहपरिकम्मेहि य अत्था, सुत्तेहि य जे य सूइता तेसिं । गाथा १८०८-१८१२ होइ विभासा उवरिं, पुव्वगयं तेण बलियं तु ॥ १८१० ॥ सूत्राऽर्थदृष्टिवादः पञ्चप्रस्थानः । तद्यथा-परिकर्माणि१ सूत्राणि२ पूर्वगतम्३ अनुयोग:४ चूलिकाश्च || छेदसूत्रणां | ५। तत्र ये परिकर्मभिः सिद्धश्रेणिकाप्रभृतिभिः सत्रैश्चाष्टाशीतिसङ्ख्यैरर्थाः सचितास्तेषां बलवत्तादिः सर्वेषामप्यन्येषां च उपरि पूर्वेषु विभाषा भवति, अनेकप्रकारास्ते तत्र भाष्यन्ते इत्यर्थः । | ८३१ (A) तेन कारणेन पूर्वगतं सूत्रं बलिकम् ॥ १८१०॥ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy