SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् चतुर्थ उद्देशकः ८३० (B) शीतिसूत्राणि। यथा सूत्रे यथोत्तरं बलिष्ठतोक्ता, एवमर्थेऽपि भावनीया, तद्यथा- एक एकस्य पार्श्वे आवश्यकार्थमधीते, आवश्यकार्थवाचनाचार्यः पुनरावश्यकार्थे प्रतिप्रच्छकस्य समीपे दशवैकालिकार्थमधीते, दशवैकालिकार्थवाचनाचार्यस्याभवति क्षेत्रम् । एवं तावद्वाच्यं यावदष्टाशीतिसूत्रार्थः । नवरं छेदसूत्रार्थं मुक्त्वा अर्थाचार्याणामुपरि छेदसूत्रार्थाचार्यो वक्तव्यः । तद्यथा-एक एकस्य पार्श्वे दृष्टिवादगतानामष्टाशीते: सूत्राणामर्थमधीते, अष्टाशीतिसूत्रार्थवाचनाचार्यः पुनरष्टाशीतिसूत्रार्थप्रतिप्रच्छकस्य समीपे छेदसूत्रार्थमधीते, छेदसूत्रार्थवाचनाचार्यस्याऽऽभाव्यं तत् क्षेत्रम् ॥ १८०८ ॥ एमेव मीसगम्मि वि, सुत्तातो बलवगो पगासो उ । पुव्वगयं खलु बलियं, हेट्ठिलत्था किमु सुयातो? ॥ १८०९ ॥ एवमेव अनेनैव प्रकारेण मिश्रकेऽपि सूत्रार्थरूपोभयस्मिन्नपि वक्तव्यम्, सर्वत्र सूत्राद् : बलवान् प्रकाश: अर्थस्य प्रकाशकः । तद्यथा-एक एकस्य पार्श्वे आवश्यकसूत्रमधीते, तस्य समीपे पुनः सूत्रवाचनाचार्य आवश्यकस्यार्थमधीते, आवश्यकार्थवाचनाचार्यस्याभवति तत्क्षेत्रम्। एवं तावद्भावनीयं यावदष्टाशीतिसूत्रार्थवाचनाचार्यः। सर्वत्राधस्तनात्सूत्रादर्थाद्वा पूर्वगतं बलीयः। 3 गाथा १८०८-१८१२ सूत्राऽर्थ छेदसूत्रणां बलवत्तादिः ८३० (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy