________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देश :
८३० (A)
܀܀܀܀܀܀
܀܀܀܀܀܀
www.kobatirth.org
स्वस्थान एव सा मण्डली२ घोटककण्डूयितं नाम यद्वारंवारेण परस्परं प्रच्छनं तद्घोटकयोः परस्परं कण्डूयितमिव घोटककण्डूयितम् ३, तत्र सूत्रमर्थं वा भाषते आवलिकया१ मण्डलीकयार घोटककण्डूयितेन वा३ । तत्र सूत्रं भाषते सामायिकादि तावद् यावद् दृष्टिवादगतानि अष्टाशीति सूत्राणि । पूर्वेषु तु विशेषो वक्तव्य इति तदनुपादानम् ॥ १८०७॥
सम्प्रति यथोक्तप्रमाणमेव सूत्रं भाषमाणानामाभवनविधिमाह
सुत्ते जहोत्तरं खलु, बलिया जा होति दिट्टिवादोत्ति । अत्थे वि होइ एवं, छेयसुयत्थं नवरि मोत्तुं ॥ १८०८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रे भाष्यमाणे यथोत्तरं खलु बलिकास्तावद् भवन्ति यावद् दृष्टिवादः । तथाहि एकः एकस्य पार्श्वे आवश्यकमधीते, आवश्यकवाचनाचार्य: पुनरावश्यकार्थप्रतिप्रच्छकस्य समीपे दशवैकालिकमधीते, दशवैकालिकवाचनाचार्यस्याऽऽभवति क्षेत्रम् । तथा एकः एकस्य पार्श्वे दशवैकालिकमधीते, दशवैकालिकवाचनाचार्यः पुनर्दशवैकालिकप्रतिप्रच्छकस्य पार्श्वे उत्तराध्ययनान्यधीते, उत्तराध्ययनवाचनाचार्यस्याभाव्यं क्षेत्रम् । एवं यथोत्तरं तावद्भावनीयं यावदष्टा
For Private and Personal Use Only
गाथा
| १८०८-१८१२ सूत्रार्थछेदसूत्रणां बलवत्तादिः
८३० (A)