________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः ८२९ (B)
साहारणट्ठियाणं, जो भासति तस्स तं हवति खेत्तं । वारग तद्दिण पोरिसि, मुहुत्त भासे उ जो जाहे ॥ १८०६ ॥
साधारणस्थितानां साधारणावग्रहावस्थितानां मध्ये य: सूत्रमर्थं वा भाषते तस्य तद्भवति क्षेत्रम् न शेषाणाम्। अथ ते वारंवारेण भाषन्ते तत आह- यो यदा वारकेण दिनं पौरुषी मुहूर्तं वा भाषते तस्य तावन्तं कालमाभाव्यम्, न शेषकालम्। इयमत्र भावनायो यतिदिवसान् भाषते तस्य ततिदिवसानाभाव्यम् अथवा प्रतिदिवसं यो यतिपौरुषीर्भाषते तस्य ततिपौरुषीरवग्रहः, यदि वा यो यतिमुहूर्तान् भाषते तस्य तावन्तं कालमवग्रहः, न शेषकालमपीति ॥ १८०६॥
आवलिया१ मंडलियार, घोडगकंडूइय३ एव भासेज्जा । सुत्तं भासति सामाइयादि जावऽट्ठसीतिं तु ॥ १८०७ ॥
इह सूत्रस्यार्थस्य वा भाषणे त्रयः प्रकारा: तद्यथा-आवलिकया१ मण्डल्या२ घोटककण्डूयितेन च ३। तत्र याऽविच्छिन्ना एकान्ते भवति मण्डली सा आवलिका १, या पुनः १. याऽवच्छिन्ना- पु. प्रे. ॥
गाथा १८००-१८०७ वर्षाकाले आभवनव्यवहारः
८२९ (B)
For Private and Personal Use Only