________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततः किम्? इत्याहश्री व्यवहार
गंतूण पुच्छिऊणं, तस्स य वयणं करेंति न करेंति। सूत्रम्
एगाऽऽभोगण सव्वे, बहि ठाणं वारणं इयरे ॥ १०४२ ॥ द्वितीय उद्देशकः ग्रामाभ्यन्तरवर्तिनः साधवः परिहारिणः समीपं गत्वा पृच्छन्ति- निराबाधं भवतो ५५१ (A)12 वर्तते ? । तत्र यदि ब्रूते 'गृहीतोऽहमशिवेन' इति। तदा तस्स य वयणं करेंति न करेंतित्ति
| तस्य परिहारिकस्य वचनं प्रवेशलक्षणं ते कर्वन्ति यदि वा न कर्वन्ति। किमक्तं भवति? प्रथमे द्वितीये वा भङ्गे न कुर्वन्ति, तृतीयभङ्गे चतुर्थे च कुर्वन्ति। तृतीये भने यतनामाहएगाऽऽभोगणेत्यादि, तृतीये भङ्गे यदि सदृशमशिवं तत एकस्मिन्नुपाश्रये तं कुर्वन्ति। अथ विसदृशं तर्हि नैकस्मिन्नुपाश्रये स्थापनीयः अन्यतरस्यानर्थसम्भवात्, किन्तु भिन्ने, तस्मिन्नप्यसम्बद्धे । अथ व्यवच्छिन्नं गृहं न किमपि लभ्यते ततः सम्बद्धेऽपि गृहे पृथग् द्वारे स्थापनीयः। एगाभोगण सव्वेत्ति एकस्य साधोः आभोगनं- प्रतिजागरणम्, किमुक्तं भवति? एक: साधुस्तं ग्लायन्तं परिहारिणं प्रतिजागर्ति, शेषाः सर्वेऽपि साधवः तत्प्रायोग्यमौषधादिकं याचन्ते। बहि ठाणमिति यदि पुनः परिहारिणो वसतावानयने
गाथा |१०४०-१०४३
अशिवगृहीतपारिहारिक सामाचारी
५५१ (A)
For Private and Personal Use Only