________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५५० (B)
सम्प्रति प्रथमादिषु भङ्गेषु प्रतिषिद्धमपि प्रवेशनं कुर्वतः प्रायश्चित्तविधिमाहअइगमणे चउगुरुगा, साहू सागारि गामबहि ठाति। कप्पट्ट सिद्ध सन्नी, साहु गिहत्थं व पेसेति॥ १०४१ ॥ प्रथमादिषु प्रतिषेधमतिक्रम्य गमनं प्रवेशनमतिगमनं तस्मिन् प्रायश्चित्तं चतुर्गुरुकाः चत्वारो गुरुका मासाः, आज्ञा-ऽनवस्था-मिथ्यात्व-विराधनाश्च दोषाः। तथा यदि प्रथमा- 13 दिषु भङ्गेषु प्रतिषिद्धेऽपि प्रवेशने कृते साधुरेकोऽपि कालं करोति तदा चरमं पाराञ्चितं नाम प्रायश्चित्तम्। अथ शय्यातरस्य कालकरणं ततश्चत्वारो गुरुकाः । यत एवं दोषाः एवं च प्रायश्चित्तमतः परिहारिकेण ग्रामस्य बहिः स्थित्वा यदि कल्पस्थकं पश्यति यदि वा सिद्धत्ति सिद्धपुत्रम् अथवा संज्ञिनं श्रावकं साधं वा विचारादिविनिर्गतं गृहस्थं वा अन्य ततः सन्देशं कथयित्वा प्रेषयति। यथा- गत्वा साधूनामाचक्ष्व, बहिः प्रव्रजितो युष्मान् द्रष्टुकामस्तिष्ठति। स तथा प्रेषितः साधूनामाख्याति ॥ १०४१ ॥
गाथा १०४०-१०४३ अशिवगृहीतपारिहारिक सामाचारी
५५० (B)
१. सागारिय चियत्तणेण वहि - जेभा. खंभा ।
For Private and Personal Use Only