________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः
५५० (A)
सकलगच्छसमक्षं कल्पस्थितमनुपरिहारिणं च स्थापयित्वा कर्तव्यं यत् करणीयम्। द्वितीयपदे अशिवादिलक्षणे अपवादे निर्वृहतापि परिहारिणं स गणावच्छेदी। अशिवादिभिश्च गृहीता-ऽगृहीतविषये आदेशः प्रकारश्चतुर्भङ्ग्यात्मकः ॥१०३९॥ तमेव प्रकारमाह
गहिया-ऽगहिए भंगा, चउरो न उ विसति पढमबितिएसु। इच्छाए तइयभंगे, सुद्धो उ चतुत्थओ भंगो ॥ १०४० ॥
गृहीता-ऽगृहीते गृहीता-ऽगृहीतविषये भङ्गाश्चत्वारः। तद्यथा-अशिवेन गच्छो गृहीतो | न परिहारीति प्रथमो भङ्गः१, परिहारी गृहीतो न गच्छ इति द्वितीयः२, परिहार्यपि गृहीतो गच्छोऽपीति तृतीयः३, न गच्छो न परिहारीति चतुर्थ:४। तत्र प्रथमे द्वितीये वा भने न प्रविशति, प्रथमभङ्गे परिहारिणो द्वितीयभङ्गे वास्तव्यानामनर्थसम्भवात्। तृतीयभङ्गे पुनरिच्छया प्रवेशः। यदि सदृशेनाशिवेन गृहीतः परिहारी गच्छश्च ततः प्रवेश्यते। अथ विसदृशेन एकः सोममुखीभिरपरः कालमुखीभी रक्तमुखीभिर्वा तदा न प्रवेश्यते, अन्यतरस्यानर्थसम्भवात् । यस्तु चतुर्थो भङ्ग स शुद्धः एव॥ १०४० ॥
गाथा १०४०-१०४३ अशिवगृहीतपारिहारिक सामाचारी
५५० (A)
For Private and Personal Use Only