________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
द्वितीय उद्देशकः । ५५१ (B)
IA
शय्यातरोऽप्रीतिं करोति तदा ग्रामस्य बहिर्वसतेः दूरे वा योऽन्यो वाटकादिः तत्र परिहारिणः स्थानं कर्तव्यम्। वारणं इयरे इति अथ सागारिको यस्तं प्रतिचरति यश्च तत्र गत्वा शरीरवार्ता पृच्छति तस्मिन् इतरस्मिन् वारणं प्रतिषेधं करोति। यथा-यूयमशिवगृहीतस्य समीपं गच्छत आगच्छत, एवं च तेन सह सम्पर्क कुर्वाणा अस्माकमप्यशिवं सञ्चारयिष्यथ तस्माद् मा कोऽपि युष्मन्मध्ये तत्र यासीत् । तदा यतना कर्तव्या। सा चाग्रे स्वयमेव वक्ष्यते ॥१०४२ ॥ साम्प्रतम् "एगाभोयण सव्वे" इति व्याख्यानयन्नाह___ वोच्छिन्नघरस्सासइ, पिहढुवारे वसंति संबद्धे। __एगो तं पडिजग्गति, जोग्गं सव्वेवि झोसंति ॥ १०४३ ॥
व्यवच्छिन्नगृहस्य असम्बद्धस्योपाश्रयस्य असति अभावे सम्बद्धेऽप्युपाश्रये वसन्ति। कथम्भते? इत्याह-पथग्द्वारे विभिन्नद्वारे। तत एकः तमिति तं परिहारिणं प्रतिजागर्ति | प्रतिचरति, शेषाः सर्वेऽपि साधवो योग्यम् औषधादिकं झोषन्ति मार्गयन्ति। आभोगनं मार्गणं झोषणमिति ह्येकार्थाः उक्तं च-'आभोगणंति वा मग्गणंति वा झोसणंति वा एगटुं' इति ॥१०४३ ।। सम्प्रति 'बहिठाण'मिति व्याख्यानयति
गाथा |१०४०-१०४३
अशिवगृहीतपारिहारिक सामाचारी
५५१ (B)
For Private and Personal Use Only