________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५५२ (A
सागारिय अचियत्ते, बाहिं पडियरण तह वि नेच्छंते। अद्दिढे कुणइ एगो, न पुणो बेंति दिट्ठम्मि ॥ १०४४ ॥
सागारिकः शय्यातरस्तस्य अचियत्ते अप्रीतौ ग्रामस्य बहिर्वसतेथूरे वा योऽन्य | उपाश्रयस्तं याचित्वा तं परिहारिणं विमुच्य एक: साधुः प्रतिचरति। 'वारणं इयरे' [गा.१०४२] इत्यस्य व्याख्यानमाह-'तहवि नेच्छंते' इत्यादि, तथापि एवमपि यदि शय्यातरो नेच्छति यथा- 'किमिति यूयं गमनाऽऽगमनकरणेनास्माकमप्यशिवं सञ्चारयथ तस्मान्मा कोऽपि तत्र गच्छेद्' इति तदा एकः साधुः यथा शय्यातरो न पश्यति न जानाति वा तथा प्रतिचरति। यदि पुनः कथमपि शय्यातरेण स्वयं दृष्टो भवेद् ज्ञातो वा ततो वदेत् । यथा 'यूयं वारिता अपि न तिष्ठथ' तदा तेन दृष्टे, उपलक्षणमेतत्, ज्ञाते वा वारिते चैवं वक्तव्यम् न भूयो गमिष्यामः क्षमस्वैकं वारमिति। अथ सागारिकस्य गाढमप्रीतिकरणं ततः सर्वेऽप्यन्यत्र वसतिं याचित्वा अवतिष्ठन्ते ॥१०४४ ॥
बहुपाउग्ग उवस्सय, असती वसहा दुवेऽहवा तिण्णी। कइयवकलहेणऽण्णहिं, उप्पायण बाहिं संछोभो ॥ १०४५ ॥
गाथा १०४४-१०४९ यथालघुकादिव्यवहारः
܀܀܀܀܀܀܀܀܀
५५२ (A)
For Private and Personal Use Only