________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री | व्यवहार
सूत्रम् द्वितीय उद्देशकः ५५२ (B)
बहुप्रायोग्योपाश्रयस्य असति अभावे, किमुक्तं भवति? यत्र सर्वे साधवो मान्ति स उपाश्रयोऽन्यो न लभ्यते, ततो द्वौ वृषभौ अथवा त्रयः कैतवेन कलहं कृत्वा अन्यत्र वसत्यन्तरे गच्छन्ति। तत्र स्थिताः परिहारिणः परिचेष्टां कुर्वन्ति। अन्यतरकैरपि औषधादीनामुत्पादनं कृत्वा औषधादीनि याचित्वा बहिः सक्षोभः क्रियते- बहिः परिहारिणः समीपे प्रेष्यते। येऽपि च कैतवर्कलहं कृत्वा न विनिर्गतास्तेऽप्यभ्यन्तरकैः सह विविक्तप्रदेशे मिलित्वा पारिहारिकयोग्यं गहन्ति ॥ १०४५॥
सम्प्रति तद्गतप्रतिचरणविधिमाहते तस्स सोहियस्स य, उव्वत्तणसंतरं च धोवेज्जा।
गाथा
१०४४-१०४९ अच्छिक्कोवहि पेहे, अच्चियलिंगेण जा पउणो ॥ १०४६॥
| यथालघुकादिते अभ्यन्तरकाः कलहव्याजेन विनिर्गतास्तस्य शोधितस्य प्रतिपन्नपरिहारतपः- 1 व्यवहारः प्रायश्चित्तस्य उद्वर्तनम्, उपलक्षणमेतत् परावर्तनमौषधादिप्रदानं च वस्त्रान्तरितेन हस्तेन
५५२ (B) १. कलहेन विनि पुण्यवि. प्रे. ।
For Private and Personal Use Only