________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री | व्यवहार
सूत्रम्
द्वितीय उद्देशकः ५५३ (A)
कुर्वन्ति । वस्त्राणि च तस्य सत्कानि सान्तरम् एकान्तरितानि गृह्णाति, सोऽन्यस्मै समर्पयति, सोऽप्यन्यस्मै इति अन्तरितं, धावयन्ति प्रक्षालयन्ति। उपधिमपि तस्य प्रत्युपेक्षन्ते | अच्छिक्का अस्पृष्टाः सन्तः, बहुवचनप्रक्रमेऽप्येकवचनं गाथायां प्राकृतत्वात्, वचन- व्यत्ययोऽपि हि प्राकृते यथालक्ष्यं भवतीति। एवं तावत् प्रतिजाग्रति यावत्स प्रगुणो भवति। राजप्रद्वेषे तु यद् यत्राऽर्चितं लिङ्गं तेन लिङ्गेन यावत् प्रगुणो भवति तावत्प्रतिजाग्रति ॥१०४६॥
सम्प्रति "तस्स अहालघुस्सगे नामं ववहारे पट्टवेयव्वे सिया" इति सूत्रं व्याख्यानयन् व्यवहारं यथालघुकं प्रस्थापनं च पर्यायैर्व्याख्यानयति
ववहारो आलोयण, सोही पच्छित्तमेव एगट्ठा। थोवो उ अहालहुसो, पट्ठवणा होइ दाणं तु ॥ १०४७ ॥
गाथा १०४४-१०४९ यथालघुकादि
व्यवहारः
१. तथा लाडनूसंस्करणे पृ. १०५ टि. २२ एवं अ. स. प्रतिषु १०४१७ गाथा स्थाने एषा गाथोपलभ्यतेथोवे उ अधा लहुसो, ववहारो रोवणा य पच्छित्तं । सोहि त्ति य एगटुं, पट्ठवणं होति दाणं तु ॥ जेभा. खंभा प्रत्योरपि प्राय एवम्।।
५५३ (A)
For Private and Personal Use Only