________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः
५५३ (B)
व्यवहार आलोचना शोधिः प्रायश्चित्तमित्येकाऽर्थाः। तथा यथालघुको नाम स्तोकः, तथा प्रस्थापयितव्यः इति प्रस्थापना दानं ततो दातव्य इत्यर्थो वेदितव्यः ॥१०४७॥ यथालघुस्वको व्यवहारः प्रस्थापयितव्य इत्युक्तं ततो यथालघुकादिव्यवहारप्ररूपणार्थमाह
गुरुओ गुरुयतरागो, अहागुरूगो य होइ ववहारो। लहुओ लहुयतरागो, अहालहू होइ ववहारो ॥१०४८॥ [बृ. क. भा. ६२३५] लहुसो लहुसतरागो अहालहूसो य होइ ववहारो। एएसिं पच्छित्तं, वोच्छामि अहाणुपुवीए ॥ १०४९ ॥ [बृ. क. भा. ६२३६]
व्यवहारस्त्रिविधः, तद्यथा गुरुको लघुको लघुस्वकश्च। तत्र यो गुरुकः स त्रिविधः, तद्यथा गुरुको गुरुतरको यथागुरुकश्च। लघुकोपि त्रिविधः, तद्यथा- लघुः लघुतरो यथालघुश्च ॥१०४८॥ लघुस्वकोऽपि त्रिविधः, तद्यथा- लघुस्वो लघुस्वतरको यथालघुस्वकश्च। एतेषां व्यवहाराणां यथानुपूर्व्या यथोक्तपरिपाट्या प्रायश्चित्तं वक्ष्यामि।
गाथा
|१०४४-१०४९ यथालघुकादि
व्यवहारः
५५३ (B)
For Private and Personal Use Only