________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
५४९ (A)
܀܀܀
www.kobatirth.org
निववेट्ठि व कुणंतो, जो कुणई एरिसा गिला होइ । पडिलेहुवणाई, वेयावडियं तु पुव्वत्तं ॥ १०३६ ॥
यो नाम नृपवेष्टिं राजवेष्टिमिव कुर्वन् वैयावृत्त्यं करोति एतादृशी भवति गिला ग्लानिः । गिलायाः प्रतिषेधो अगिला तया करणीयं वैयावृत्त्यम्, किं तद् ? इत्याहप्रतिलेखनोत्थापनादिकं भाण्डस्य प्रत्युपेक्षणमुपविष्टस्योत्थापनम् आदिशब्दाद् भिक्षानयनादिपरिग्रहः । एतत्पूर्वोक्तं वैयावृत्त्यम् ॥१०३६ ॥ अत्र निर्युक्तिविस्तरः
परिहारि कारणम्मी, आगमे निज्जूहणम्मि चउगुरुगा ।
आणाइया य दोसा, जं सेवति तं च पाविहिति ॥ १०३७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
परिहारिणः कारणे वक्ष्यमाणलक्षणे आगमे आगमने सति यदि निर्यूहणा अपाकरणं क्रियते तदा तस्य गणावच्छेदिनो निर्यूहितुः प्रायश्चित्तं चत्वारो गुरुका मासाः । तथा आज्ञादयश्च आज्ञा-नवस्था-मिथ्यात्व-विराधनारूपाश्च तस्य दोषाः । तथा यद्वैयावृत्त्याकरणतः स्थानालाभेन वा प्रतिसेवते परिहारी तच्च तन्निमित्तमपि च प्रायश्चित्तं स प्राप्नोतीति ॥१०३७ ॥
For Private and Personal Use Only
सूत्र ७
गाथा
| १०३४-१०३९ | ग्लानपारिहारिक सामाचारी
५४९ (A)