________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
द्वितीय उद्देशकः ५४८ (B)
IM
कल्पते निर्वृहितुम् अपाकर्तुं वैयावृत्त्याकरणादिना, किन्तु अग्लान्या तस्य करणीयं वैयावृत्त्यं तावद्यावत्स रोगातङ्काद्विप्रमुक्तो भवति। ततः पश्चात्तस्य परिहारिणो [अहा] लहुस्सगत्ति स्तोको नाम व्यवहारः प्रायश्चित्तं प्रस्थापयितव्यो दातव्यः स्यादिति सूत्रसङ्केपार्थः ॥ व्यासार्थं तु भाष्यकृद्विवक्षुर्यैः कारणैः स ग्लायति तान्यभिधित्सुराह- |
पढम-बिइएहिं न तरइ, गेलन्नेणं तवोकिलंतो वा। निज्जूहणा अकरणं, ठाणं व न देइ वसहीए ॥ १०३५ ॥
प्रथम-द्वितीयाभ्यां क्षुत्पिपासालक्षणाभ्यां परीषहाभ्यामभिभूतः सन् परिहारी ग्लायति, यदि वा ग्लानत्वेन अथवा तपसा क्लान्तः सन्, एतावता 'गिलायमाण'मिति पदं ||१०३४-१०३९
ग्लानपारिहारिक व्याख्यातम्। अधुना 'निजूहित्तए' इति व्याचिख्यासुराह-नि!हणा नाम वैयावृत्त्यस्या
सामाचारी ऽकरणम्, यदि वा वसतौ दोषाभावे यत्स्थानं न ददाति एषा निर्वृहणा, वैयावृत्त्याकरणादिना यत्तस्य अपाकरणं सा नियूहणेति भावः ॥१०३५ ॥ यदुक्तम् “अगिलाए तस्स ५४८ (B) करणिज्ज" इति। तत्र गिलाप्रतिषेधेनाऽगिला ज्ञायते इति गिलाव्याख्यानार्थमाह
गाथा
For Private and Personal Use Only