________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५४४ (B)
नामेण य गोत्तेण य, पसंसिया चेव पुव्वकम्मेहिं। भग्गवणिया वि जोहा, जिणंति सत्तुं उदिण्णंपि ॥ १०२६ ॥
ते योधाः प्रत्यागताः सन्तः तेन राज्ञा नाम्ना अभिधानेन गोत्रेण अन्वयेन तथा | पूर्वकर्मभिः पूर्वकृतैरनेकैः संविधानैः प्रशंसिताः सम्यक् स्तुताः, ततस्तया प्रशंसया उत्कर्ष ग्राहिताः सन्तः भग्नव्रणिता अपि वणिताः सन्तो भग्ना भगवणिताः, राजदन्तादिदर्शनाद्भग्रशब्दस्य पूर्वनिपातः। तथाभूता अपि उदीर्णमपि प्रबलमपि शत्रु जयन्ति ॥ १०२६ ॥ उक्तो योधदृष्टान्तः। सम्प्रति दार्टान्तिकयोजनामाह
इय आउर पडिसेवंत, चोदितो अहव तं निकायंतो । लिंगाऽऽरोवणचागं, करेज घायं व कलहं वा ॥ १०२७॥
इति एवं योधगतेन प्रकारेण आतुरः प्रथम-द्वितीयपरीषहाभिभूतत्वेनाऽऽकुलीकृतो- 1 ऽनेषणादि प्रतिसेवमानः सन् चोदितः, अथवा प्रतिसेवितं निकाचयन् आलोचयन् |
गाथा |१०२५-१०२९
प्रायश्चित्त
कारणे
मृगदृष्टान्तः
५४४ (B)
१. "ली भूतो- वा मो. पु. ॥
For Private and Personal Use Only