________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५४३ (B)
ग्रीष्मे ग्रीष्मकाले स मृगो जलावतारे गतो, व्याधं मोक्षितेषु मोक्षितो मोक्तुमिष्ट इषुर्बाणो येन स तथा तं दृष्ट्वा चिन्तयति-यदि न पास्यामि तोयं जलं ततो मे ध्रुवं मरणम्, अपि च-पानीयं पीत्वा मर्तुमपि मे सुखम् तथा कदाचित्पानीयपानेन सचेष्टाकः सन् पलायेयमपि इति चिन्तयित्वा पानीयमन्यस्मिन्नवकाशे पीत्वा वेगबलेन व्याधं नुदित्वा प्रेर्य गतो मृगः स्वस्थानम् ॥ १०२२-२३ ॥ उक्तो मृगदृष्टान्तः। सम्प्रति दार्टान्तिकयोजनामाहमिग सामाणो साहू, दगपाणसमा अकप्पपडिसेवा।
गाथा वाहोवमो य बंधो, पडिसेविय तं पणोल्लेइ ॥ १०२४ ॥
१०२०-१०२४ प्रायश्चित्त
कारणे गसमानः मृगसदृशः साधुः उदकपानसमा उदकाभ्यवहारसमा अकल्पप्रतिसेवा ।
मृगदृष्टान्तः व्याधोपमः व्याधस्थानीयः बन्धः कर्मबन्धः। तं कर्मबन्धमकल्प्यं प्रतिसेव्य मृग इव पानीयं पीत्वा व्याधं प्रणुदति प्रेरयति ॥ १०२४ ॥ सम्प्रति आलोचनाया अपरुषभाषणे यो || ५४३ (B) योधदृष्टान्त उपन्यस्तः स भाव्यते
For Private and Personal Use Only