________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
५४२ (B)
܀܀
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वाभ्याम् आद्याभ्यां परीषहाभ्यां क्षुत्पिपासालक्षणाभ्यां ग्लायन् ग्लानिमुपगच्छन् गुरुलाघवचिन्तया अनेषणादिकमपि प्रतिसेवेत तस्मिंश्च तथा प्रतिसेवमाने दृष्टान्तो मृगेण वेदितव्यः । स च तथा प्रतिसेव्याऽऽलोचयेत् । आलोचनायां च तेन दीयमानायां अंपरुषं भाषणीयम् । यदि पुनः परुषं भाषते ततः प्रायश्चित्तं चत्वारो गुरुका मासा:, आज्ञाऽनवस्था-मिथ्यात्व-विराधनाश्च दोषाः । अत्रार्थे योधान् दृष्टान्तीकुर्याद्, यदि वा वृषभेण दृष्टान्तः कर्तव्य इति । तत्र मृगदृष्टान्तोऽयम् -
एगो मिगो गिम्हकाले संपत्ते तण्हाए अभिभूतो पाणियत्थाणं गतो पास कोदंडकंडधरियहत्थं वाहं । ततो मिगो इमं चिंतेइ - जइ न पियामि तो खिप्पं मरीहामि, पीते सुहंसुहेण मरिज्जामि, अवि य पीए कयाइ बलियत्तणगुणेण पलाइज्जा वि एवं चिंतिऊणं सो अन्नेणं ओगासेणं खिप्पं पाणीयं पाउं लग्गो । जाव सो वाहो तं ओगासं पावति ताव कइ वि पाणीयं घोट्टे करित्ता पलातो । एवं सो वि पारिहारिओ चिंतेइ - जइ न पडिसेवामि तो मरामि, अवूढे च पायच्छित्ते अन्नमवि कम्मनिज्जरणं न काहामि,
१. रुषं परुषं न भा' वा. मो. पु. ॥
For Private and Personal Use Only
***
गाथा १०२०-१०२४ प्रायश्चित्तकारणे
मृगदृष्टान्तः
५४२ (B)