________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
द्वितीय उद्देशकः ५४२ (A)
पुनस्तेनाप्यसंस्तरत इति सूत्रद्वयस्य परस्परं पूर्वानन्तरसूत्राच्च नानात्वं विशेष इति ॥१०१९॥ अत्र पर आह
उभयबलं परियागं, सुत्तऽत्थाऽभिग्गहे य वण्णेत्ता । न हु जुज्जइ वोत्तुं जे, जं तदवत्थो वि आवजे ॥ १०२० ॥
ननु तस्य पारिहारिकस्य पूर्वमुभयं धृति-संहननरूपं बलं वर्णितं पर्यायश्च गृहियतिपर्यायरूप उभयो वर्णितः, सूत्राऽर्थावपि तस्य यावत्प्रमाणौ भवतस्तावत्प्रमाणौ वर्णितौ | अभिग्रहा अपि च तस्य द्रव्य-क्षेत्रादिविषयाः पूर्वमभ्यस्ता व्यावर्णिताः, तत उभयं बलमुभयं पर्यायं सूत्रार्थावभिग्रहांश्च वर्णयित्वा न हु नैव युष्माकं युज्यते वक्तुम्, जे इति पादपूरणे, यत् तदवस्थोऽपि परिहारतपः प्रतिपन्नोऽप्याऽऽपद्यते प्रायश्चित्तस्थानमिति, उभयबलादियुक्तस्य भूयः प्रायश्चित्तस्थानापत्त्यसम्भवात् ॥ १०२०॥ अत्र सूरिराह
दोहि वि गिलायमाणो, पडिसेवंते मएण दिटुंतो। अलोयणा अफरुसे, जोहे वसहे य दिटुंतो ॥ १०२१ ॥
गाथा |१०२०-१०२४ प्रायश्चित्त
कारणे मृगदृष्टान्तः
५४२ (A)
For Private and Personal Use Only