________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५४१ (B)
अनुपारिहारिकस्तस्य स्थापयितव्यः, तेन तस्य करणीयं वैयावृत्त्यमितीदमेकं सूत्रम्, द्वितीयं सूत्रमाह-'से य न संथरेजा' इत्यादि, सः अधिकृतः पारिहारिको ग्लायन्नकृत्यप्रतिसेवनेनापि न संस्तरेत् न परिहारतपोयोग्यमनुष्ठानं विधातुमलम्, ततः तस्यानुपारिहारिकेण वैयावृत्त्यं करणीयम्, तच्च यथा करणीयं तथा भाष्यकृद् दर्शयिष्यति। यदि पुनः सत्यपि बलेऽनुपारिहारिकेण क्रियमाणं वैयावृत्त्यं साइजेजत्ति स्वादयेद् अनुमन्येत, तदपि प्रायश्चित्तं कृत्स्नं तत्रैव उह्यमाने परिहारतपसि अनुग्रहकृत्स्नेनाऽऽरोपयितव्यं स्यादिति सूत्रद्वयसक्षेपार्थः ॥ व्यासार्थं तु भाष्यकृत्प्रतिपादयति
परिहारियाहिगारे, अणुवत्तंते अयं विसेसो उ। आवण्ण दाण संथरमसंथरे चेव नाणत्तं ॥१०१९ ॥
पारिहारिकाधिकारे पारिहारिके प्रकृते अनुवर्तमाने अयं वक्ष्यमाणलक्षणो विशेषः | पारिहारिकविधिगतः आभ्यां सूत्राभ्यामभिधीयते। को विशेषः? इत्यत आह-आवन्न दाण संथरेत्ति, परिहारतपःप्रायश्चित्तमापन्नस्य परिहारतपोदाने कृते सति तद्वहतो ग्लानिमुपगतस्य अन्यतरदकृत्यस्थानं प्रतिसेव्य तेन संस्तरतः प्रथमसूत्रेण विधिरभिधीयते, द्वितीयसूत्रेण
सूत्र ५-६
गाथा १०१७-१०१९ पारिहारिकसामाचारी
५४१ (B)
For Private and Personal Use Only