________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५४० (B)
तत्र यदि जघन्येनैको गीतार्थः, तत्राचार्यो गीतार्थः, शेषाः सर्वे अगीतार्था इति । य एको गीतार्थः प्रायश्चित्तस्थानमापन्नस्तस्य[स] एवाचार्य: कल्पस्थितः स एव चानुपारिहारिकः। यदि पुनर्बहवो गीतार्थाः प्राप्यन्ते यदि वा सर्वे गीतार्थाः तत एकं कल्पस्थितं कृत्वा बहवः पारिहारिका भवन्ति, तेषां च पारिहारिकाणामनुपारिहारिकाः कर्त्तव्याः, पारिहारिकैश्च परिहारतपसि व्यूढे अनुपारिहारिकाः परिहारतपः प्रतिपद्यन्ते, कृतपरिहारतपःकर्माणस्तु तेषामनुपारिहारिका भवन्ति। कल्पस्थितोऽपि परिहारतपो वहति, तस्याप्यनुपारिहारिक एको दातव्यः। यदि पुनराचार्यः परिहारतपोयोग्यं प्रायश्चित्तस्थानमापन्नो भवति, शेषास्तु सर्वेऽप्यगीतार्थाः ततः सोऽन्यगणं गत्वा परिहारतपः प्रतिपद्यते। परिहारियेत्यादि,
सूत्र ५-६ परिहारिकस्य यदि शेषाः साधव आलापनादिकं कुर्वन्ति, आदिशब्दात्सूत्रवाचनादि
गाथा परिग्रहः, ततस्तेषां प्रायश्चित्तं चत्वारो लघवः । अथ भक्तं ददति तदा चत्वारो गुरवः। अथ |१०१७-१०१९ पारिहारिकाद्भक्तं गृह्णन्ति तदा चत्वारो लघवः । यदि पुनः पारिहारिक एवाऽऽलापनादिकं
पारिहारिककरोति भक्तं वा ददाति गृह्णाति वा तदा सर्वत्र प्रत्येकं चत्वारो गुरुकाः। ये पुनर
सामाचारी गीतार्थास्तेभ्यः शुद्धं तपो दातव्यम्, अगीतार्थतया तेषां परिहारतपोऽनर्हत्वात्। अथ |* ५४० (B)
१. तपो योग्यत्वा भावात् । अथ वा. मो. पु. मु. ॥
For Private and Personal Use Only