________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः
५४० (A)
भवति? बहवोऽप्यपराधकारिणो नियमतः प्रायश्चित्तमापद्यन्ते इत्यस्यार्थस्य ख्यापनार्थमिदं सूत्रमित्येष सूत्रस्य सम्बन्धः ॥१०१६॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या
बहवः साधर्मिका एकतो विहरन्ति, ते च तथा विहरन्तः सर्वेऽप्यन्यतरत् | अकृत्यस्थानं प्रतिसेव्याऽऽलोचयेयुः, आलोच्य च एकं तत्र कल्पस्थितं कृत्वा अवशेषाः सर्वेऽपि निर्विशन्ति, परिहारतपः प्रतिपद्यन्ते इत्यर्थः । ततस्तेषां परिहारतप:समाप्त्यनन्तरं पश्चात्स कल्पस्थितो निर्विशेत्, स परिहारतपः प्रतिपद्येतेति भावः। | तस्यैकोऽनुपारिहारिको दीयते । एषः सूत्रसझेपार्थः ॥ व्यासार्थं तु भाष्यकृदाह
सव्वे वा गीयत्था, मीसा व जहन्न एग गीयत्थो। परिहारियालवणाइ भत्तं देंता य गेण्हंता ॥ १०१७ ॥ लहु गुरु लहुगा गुरुगा, सुद्धतवाणं च होइ पण्णवणा। अह होति अगीयत्था अन्नगणे सोहणं कुज्जा ॥ १०१८ ॥ ते बहवः साधर्मिकाः कदाचित् सर्वेऽपि गीतार्था भवेयुः कदाचिद् गीतार्थमिश्राः ।
सूत्र ५-६
गाथा
|१०१७-१०१९ पारिहारिकसामाचारी
܀܀܀܀܀܀܀܀
५४० (A)
For Private and Personal Use Only