________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५३९ (B)
गत्वा परिहारतपः प्रतिपद्यते। अथ समस्ता अप्याचार्यप्रभृतयोऽगीतार्थास्ततोऽन्यत्र गच्छान्तरे ते सर्वे गत्वा यः प्रायश्चित्तमापन्नः स शुद्धं तपः प्रतिपद्यते ॥१०१५ ॥
सूत्रम्- बहवे साहम्मिया एंगओ विहरंति, सव्वे वि ते अण्णयरं अकिच्चट्ठाणं पडिसेवित्ता आलोएज्जा, एगं तत्थ कप्पागं ठवइत्ता अवसेसा णिव्विसिज्जा, अह पच्छा से वि निव्विसेज्जा॥ ४॥ । 'बहवे साहम्मिया' इत्यादि, अथास्य सूत्रस्य कः सम्बन्धः? उच्यतेसरिसम्मि असरिसेसु व, अवराहपएसु जइ गणो लग्गे। बहुयकयम्मि वि दोसित्ति, होइ सुत्तस्स संबंधो ॥ १०१६॥
सूत्र २-३-४
गाथा सदृशमपराधपदं नाम यथा सर्वैरपि प्राणातिपातः कृत इति। असदृशान्यपराधपदानि 1४|१०१४-१०१६ मूलगुणानां प्राणातिपातविरत्यादीनां मध्ये किमपि केनाप्यपराद्धम्, तत्र यदि गणः
प्रायश्चित्त
स्वरूपम् सदृशेऽपराधे यदि वा असदृशेष्वपराधेषु लगेत् तथापि यथा लोके "शतमदण्ड्यम् | सहस्रमवन्ध्यं" तथात्रापि प्रतिपत्तिर्माभूत्। किन्तु बहुकैरपि कृतेऽपराधे दोषः। किमुक्तं || ५३९ (B) १. एगतओचूर्ण्यवतरणे २. “सह खंसू-जेसू. संसू. ।।
For Private and Personal Use Only