________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
द्वितीय उद्देशकः
५३५ (B)
सूत्रेण बाधितत्वात् ॥१००६॥ आचार्य आह
मा वय सुत्त निरत्थं, न निरत्थगवाइणो जओ थेरा। कारणियं पुण सुत्तं, इमे य ते कारणा होति। १००७ ॥
मा वद मा ब्रूहि त्वं चोदक! यत् सूत्रं निरर्थकम्, यतः स्थविरा भगवन्तो न | निरर्थकवादिनो भवन्ति, तेषां श्रुतकेवलित्वात्। यद्येवमर्थतः प्रतिषिद्धो द्वयोर्विहारः,अथ च सूत्रेण प्रतिपादित इति कथम्? अत आह-सूत्रं पुनः कारणेषु भवं कारणैर्निर्वृत्तं वा | कारणिकम्, कारणान्यधिकृत्य प्रवृत्तमिति भावः। तानि च कारणान्यमूनि वक्ष्यमाणलक्षणानि ॥१००७॥ तान्येवाह
असिवे ओमोयरिए, राया संदेसणे जयंता वा। अजाणगुरुनियोगा, पव्वज्जा नातिवग्ग दुवे ॥ १००८ ॥ अशिवं क्षुद्रदेवताकृत उपद्रवः, तस्मिन् द्वयोर्विहारः। तथा अवमौदर्य-दुर्भिक्षं तस्मिन् ।
गाथा १००२-१००८
५३५ (B)
सुत्तमणत्थं-जे. भा. खंभा. ॥
For Private and Personal Use Only