________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
.
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५३५ (A)
गमनमनेनेति व्याघातो गमनव्याघातकरणमभवत्। एवं दुर्गतिभीते षष्ठीसप्तम्योरर्थं प्रत्यभेदात् दुर्गतिभीतस्य मोक्षार्थं व्रजतः शल्यम् अपराधलक्षणं मोक्षगमनव्याघातकारि जातम् ॥१००४ ॥ ततः किम्? इत्याह
मरिउं ससल्लमरणं, संसाराडविमहाकडिल्लम्मि। सुचिरं भमंति जीवा, अणोरपारम्मि ओइण्णा ॥ १००५ ॥
उक्तप्रकारेण सशल्यं मरणं यथा भवति एवं मृत्वा संसाराटवीमहाकडिल्ले संसाराटवीमहागहने अनर्वाक्पारे अवतीर्णा जीवाः सुचिरम् अनन्तमपि कालं यावद् भ्रमन्ति ॥१००५ ।। अत्रोपसंहारमाह
जम्हा एते दोसा, तम्हा दोण्हं न कप्पति विहारो। एयं सुत्तं अफलं, अह सफलं निरत्थओ अत्थो ॥ १००६ ॥
यस्माद् द्वयोः विहारे एते अनन्तरोदिता दोषास्तस्मान्न कल्पते द्वयोर्विहारः। अत्र पर | आह- ननु एतत् सूत्रमफलम्, द्वयोर्विहारस्यैवासम्भवात्, अथ सफलं तर्हि द्वयोरपि विहारः सूत्रेणानुज्ञात इति योऽयमर्थतः प्रतिषिद्धो भवद्भिर्द्वयोर्विहारः सोऽर्थो निरर्थकः
गाथा १००२-१००८
५३५ (A)
For Private and Personal Use Only