________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५३६ (A)
अथवा राजा प्रद्विष्टो भवेत् ततो द्वयोर्विहारः। संदेसणत्ति आचार्यप्रेषणेन द्वौ विहरेयाताम्। जयंता वा इति यतमाना नाम ज्ञाननिमित्तं दर्शननिमित्तं वा प्रयत्नवन्तः । इयमत्र भावनाविषमशास्त्राणि सम्प्रतिकालगृहीतानि, तानि च यदि नाभ्यस्तानि क्रियन्ते ततो विस्मृतिमुपयान्ति। गच्छे च सबालवृद्धाकुले भिक्षाचर्यादिना व्याघातस्तत आचार्यानापृच्छ्य तैर्विसृष्टौ द्वावन्यत्र गच्छेयाताम्। एवं दर्शनप्रभावकशास्त्रनिमित्तमपि द्वयोर्विहारो भावनीयः। आर्याणां वा एकस्मात्क्षेत्रादन्यस्मिन् क्षेत्रे नयने सङ्घाटस्य गुरुनियोगात् द्वयोर्विहारो भवेत्। यदि वा प्रव्रज्याभिमुखः कोऽपि सञ्जातस्ततस्तस्य स्थिरीकरणार्थं सङ्काटकप्रेषणम्। यदि वा ज्ञातिवर्गः स्वजनवर्गः कस्यापि साधोवन्दापनीयो जातः, ततस्तद्वन्दापनार्थं च द्वौ विहरेयातामिति ॥१००८ ॥
तत्र यतनामाहसमयं भिक्खग्गहणं, निक्खमण-पवेसणं अणुण्णवणं। एक्को कहमावण्णो?, एक्को व कहं न आवण्णो ॥ १००९ ॥
गाथा १००९-१०१३
अध्यात्मस्य प्रामाण्यम्
५३६ (A)
| १. समगं - जेभा. खंभा. ॥
For Private and Personal Use Only