________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
द्वितीय उद्देशकः ५३३ (B)
तैर्निष्काशयेयः । इत्थं तस्य ग्लानस्य कर्षणे निष्काशने प्रवचनस्य उड्डाहः मालिन्यम्। तथा न गृहस्थादयो यतनया गच्छन्ति ततस्तैर्नीयमाने षण्णां जीवनिकायानां विराधना संघट्टन-परितापना-ऽपद्रावणरूपा। तथा यत्र तस्याग्निसंस्कारः कर्तव्यस्तत् स्थण्डिलम् अस्थण्डिलं वेति न परिभावयन्ति। ततस्तस्मिन्नस्थण्डिले ध्यामिते दग्धे षड्जीवनिकायविराधना। अथ नाग्निसंस्कारं कुर्वन्ति किन्त्वेवमेव मुञ्चन्ति तत्राप्यस्थण्डिले मुक्ते षड्जीवनिकायविराधना। अन्यच्च यदि तस्य ग्लानस्य शरीरं क्वचित् प्रदेशेषु व्यापन्नं कुथितं भवेत् ततस्तस्मिन् व्यापन्ने अयतनया नीयमाने द्वीन्द्रियविराधना ॥१००० ॥ अत्रैव च प्रायश्चित्तविधिमाह
गाथा
९९९-१००१ गोण-निव-साणेसु य, गुरुगा सेसेसु चउलहू होति।
ग्लानस्य उड्डाहोत्ति य काउं, निव वजेसुं भवे लहुगा ॥ १००१ ॥
एकाकि मोचने
दोषाः यदि गृहस्था बलीवर्दाभ्यां निष्कासितवन्तः, यदि वा राजा निष्काशितवान्, श्वानो वा ग्लानावस्थायां वमने मुखहृदयादिकं लिहन्ति, तदा एतेषु त्रिषु स्थानेषु प्रायश्चित्तं || ५३३ (B) प्रत्येकं चत्वारो गुरुका मासाः। शेषेषु च सर्वेष्वपि स्थानेषु प्रत्येकं चत्वारो लघुमासा
For Private and Personal Use Only