________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५३३ (A)
हृदयादिकं सर्वं खरण्टयेत्। तं च तथा वमन्तं दृष्ट्वा श्वानः समागत्य तद् वम्यमान भक्षयन्ति। भक्षयन्तश्च मुखहृदयादिकं च लिहन्ति। एवं शनाम् अतियणेत्ति अदने भक्षणे लोके जुगुप्सा निन्दा समुपजायते। यथा- धिगेतेषां धर्मस्तपो वा, यदित्थमिहलोकेऽपि फलमनुभवन्ति इति। गतं ग्लानद्वारम्।
अधुना मरणद्वारमाह- तस्सद्वैत्यादि, तस्य ग्लानस्यार्थाय वैद्यौषधादिसमानयनप्रयोजनाय ग्रामान्तरादौ गते यदि स ग्लानः कालगतो भवेत् तदा अमी दोषाः ॥९९९ ॥ तानेवाह
गिहि गोण मल्ल राउल-निवेयणा पाणकड्ढणुड्डाहे। छक्कायाण विराहण, झामिय मुक्के य वावन्ने ॥ १००० ॥
यदि स ग्लानो मृतः सन् गृहस्थैर्निष्कास्येत। यदि वा बलीवर्दैः आकृष्येत। अथवा | मल्लैः निष्कास्येत । यदि वा केनापि राजकुले निवेदना क्रियेत यथा- एको व्रती अनाथो | मृत इति, ततो राज्ञा स निष्कास्येत। यदि वा केचित् पाणानां चण्डालानां मूल्यं दत्त्वा
गाथा
९९९-१००१
ग्लानस्य एकाकि मोचने
दोषाः
X
५३३ (A)
For Private and Personal Use Only