________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५३२ (B)
सद्योजातपिल्लकमरणमात्मविराधना च। अथ मानुषी प्रसूता ततः 'इयमेतयोरेव, इति प्रवचनोड्डाहः। निष्काशनेऽधिकरणं लोको ब्रूयान्निरनुकम्पा अमी, चेडरूपं वा म्रियेत । अथवा सा प्रसूता चेडरूपं त्यक्त्वा व्रजेत्। ततः तस्योज्झने निरनुकम्पा इति गर्दा,अनुज्झने उड्डाहः ८। एते शून्यवसतिकरणे दोषाः ॥९९८ ॥
सम्प्रति ग्लानस्य एकाकिनो मोचने तस्य मरणे च दोषानाहगेलण्ण सुण्णकरणे, खद्धाइयणे गिलाण अणुकंपा। साणाऽतियण दुगुंछा, तस्सट्ठ गयम्मि कालगए।। ९९९ ॥
ग्लानार्थमात्मार्थं वा निर्गमने ग्लानः शून्यो भवेत्, तस्य च ग्लानस्य शून्यस्य करणे : पिपासा तदनु बुभुक्षा वा जायेत, पिपासितो बुभुक्षितश्च महता शब्देन व्याहरेत्, व्याहार श्रवणाच्च गृहस्था आगच्छेयुः, ते च गृहस्थाः समागता यद्याचते ग्लानः पथ्यमपथ्यं वा तत्सर्वमनुकम्पया ददति। तत्र पथ्यस्यापथ्यस्य वा खद्धस्य प्रचुरस्य अइयणे इति अदने भक्षणे वमनं भूयात, स च न किमपि कर्तुं समर्थो ग्लानत्वादिति वमनेन मुख
गाथा ९९९-१००१
ग्लानस्य एकाकि मोचने
दोषाः
५३२ (B)
For Private and Personal Use Only