________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
द्वितीय उद्देशकः ५३२ (A)
गृहस्थैस्त्याजयन्ति ततो रुधिरगन्धेन तयोः श्रमणयो शाऽऑस्युपजायन्ते। अथास्वाध्यायिकमिति कृत्वा सूत्रपौरुषीं न कुरुतस्ततो मासलघु, अर्थपौरुषीं न कुरुतो मासगुरु, सूत्रपौरुषीमकुर्वतोः सूत्रं चेन्नश्यति ततश्चतुर्लघु, अर्थपौरुषीमकुर्वतोरर्थनाशे चतुर्गुरु। अवर्णश्च लोके समुच्छलति, यथैते पिशाचमूर्तयः श्मशाने प्रियाः श्मशाने तिष्ठन्तीति ४। __ आदेसत्ति आदेशा नाम प्राघूर्णकाः, ते भिक्षागतयोः तयोः श्रमणयोः समागताः, शय्यातरेण च शून्यां वसतिमुपलभ्य गतौ तौ श्रमणाविति विचिन्त्य सा वसतिस्तेषां दत्ता। ततो यथा बटुक-चारण-भटेषु दोषा उक्तास्तथात्रापि द्रष्टव्याः ६।
वालत्ति व्यालो नाम सर्पः, स शून्यं दृष्ट्वा वसतौ प्रविशेत्। ततो यद्यागतौ तौ श्रमणौ | निष्काशयतस्ततो हरितकायमध्येन तस्य गच्छतोऽधिकरणदोषः। अन्यस्मिन् वा गृहे |* प्रविष्टस्तन्मानुषाणि दशेत्, स वा तैर्मा]त। अथैतदोषभयान्न निष्काशयतस्ततस्तेन भक्षिते | आत्मविराधना ७।
निक्केयणेत्ति शून्यां वसतिं दृष्ट्वा तिरश्ची अनाथमानुषी वा समागत्य प्रसूते। तत्र यदि तिरश्ची शुनी प्रभृतिका नवप्रसूता निष्काश्यते निष्काशनेन निराश्रया क्रियते तदा
गाथा ९९९-१००१ ग्लानस्य
दोषाः
५३२ (A)
For Private and Personal Use Only