________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५३४ (A)
भवन्ति। अथवा राज्ञा निष्कासिते चत्वारो गुरुकाः, शेषेषु च सर्वेष्वपि स्थानेषु उड्डाहः संवृत्त इति प्रत्येकं चत्वारो लघुकाः। यच्चाऽयतनया निष्कासिते षण्णां जीवनिकायानां संघट्टन-परितापना-ऽपद्रावणरूपं विराधनं यच्चास्थण्डिले मोचनम् अग्निसंस्कारकरणं वा, या च कुथिते नीयमाने द्वीन्द्रियविराधना तन्निमित्तं च प्रायश्चित्तमिति ॥१००१॥ सम्प्रति यदुक्तं 'गृहस्थादिभिः कर्षणे उड्डाहः' इति तत्र तमेवोड्डाहं कथयति
बिंति य मिच्छादिट्ठी, कत्तो धम्मो तवो व एसिं तु?। इहलोए फलमेयं, परलोए मंगुलतरागं ॥ १००२ ॥
ब्रुवते मिथ्यादृष्टयः- कुतो धर्मस्तपो वा एतेषाम् ? नैव कुतश्चिदपीति भावः। ||१००२-१००८ तथाहि- इहलोके तावत्फलमेतत्, यदित्थं निष्काशनम्, परलोके एतस्मादपि फलात् फलं मङ्गुलतरमशुभतरमिति ॥१००२ ॥ तथाजइ एरिसाणि पावेंति, दिक्खिया किं खु अम्ह दिक्खाए ?।
५३४ (A) पव्वजाभिमुहाणं, पुणरावत्ती भवे दुविहा ॥ १००३ ॥ दारं २।
गाथा
For Private and Personal Use Only