________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
तृतीय उद्देशकः ७८० (B)
शिष्ये स्वदीक्षिते कुलिच्चए वत्ति स्वकुलसम्बन्धिनि एवं गणसम्बन्धिनि सङ्घसम्बन्धिनि च व्यवहारे समदर्शी किमुक्तं भवति? शिष्याणां कुल-गण-सङ्घसम्बन्धिनां च परस्परं | व्यवहारे जाते समदर्शी, तथा संस्तवेषु पूर्वसंस्तुतेषु पश्चात्संस्तुतेषु वाऽन्यैः समं व्यवहारे | जाते समदर्शी, अतः स सङ्घः शीतगृहोपमः । यथा शीतगृहमाश्रितानां स्वपरविशेषाकरणतः परितापहारी तथा व्यवहारार्थमागतानां सङ्घोऽपि स्वपरविशेषाकरणतः परितापहारीति भावः ॥ १६६९॥
सम्प्रति सङ्घशब्दस्य व्युत्पत्तिमाहगिहिसंघायं जहिउं, संजमसंघायगं उवगए थे। णाण-चरणसंघायं संघायतो हवइ संघो ॥ १६७० ॥
गृहिणां संसारिणां माता-पित्रादीनां सङ्घातं हित्वा परित्यज्य संयमसङ्घातमुपगतः सन् | णमिति वाक्यालङ्गारे, यो ज्ञानचरणसङ्घातं सङ्घातयति आत्मनि स्थितं करोति स ज्ञानचरण सङ्घातं सङ्घातयन् भवति सङ्घः, सङ्घातयतीति सङ्घ इति व्युत्पत्तेः, विपरीतस्तु सङ्घो न भवति ॥ १६७०॥
गाथा १६६७-१६७४ दुर्व्यवहारस्य
दोषाः
७८० (B)
For Private and Personal Use Only