________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
तृतीय
उद्देशकः ७७६ (B)|
पर्षनाम व्यवहार्यों द्वावपि पक्षौ। तौ ब्रूते- यदि द्वावपि पक्षौ मध्यस्थौ भवतः। मध्यस्थता राग-द्वेषाऽकरणतो भवति, तत आह-निभृतौ निर्व्यापारौ राग-द्वेषौ ययोस्तौ रागद्वेषनिभृतौ क्तान्तस्य पाक्षिकः परनिपातः, सुखादिदर्शनात्। ततः सुखं व्यवहरितुं व्यवहरणं | भवति ॥ १६५३॥ एवं पर्षद्ग्रहणं कृत्वा ये दुर्व्यवहारिणस्तानिक्षिपन्निदमाहओसन्नचरण-करणे सच्चव्ववहारया दुसद्दहिया। चरण-करणं जहंतो सच्चव्ववहारयं जहइ ॥ १६५४ ॥
अवसन्ने शिथिलतां गते चरणकरणे व्रतश्रमणधर्मादि-पिण्डविशोधिसमित्यादिरूपे यस्य सोऽवसन्नचरण-करणः, तस्मिन् सत्यव्यवहारता यथावस्थितव्यवहारकारिता दुःश्रद्धेया। यतश्चरण-करणं जहन् त्यजन् सत्यव्यवहारतामपि जहाति ॥ १६५४॥
जइया णेणं चत्तं, अप्पणतो नाण-दसण-चरित्तं। तइया तस्स परेसुं, अणुकंपा नत्थि जीवेसु ॥ १६५५ ॥
गाथा |१६५२-१६५९
संघकार्ये व्यवस्थादिः
७७६ (B)
For Private and Personal Use Only