________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
तृतीय
उद्देशकः
७७४ (B)
www.kobatirth.org
एवं निहोडणं कृत्वा एतदेवाधिकृतं सूत्रं सप्तसूत्रात्मकमुच्चार्य दिशम् आचार्यत्वादिकमपहरन्ति उद्दालयन्ति, अथ सोऽल्पापराधः प्रत्यावृत्तश्च तदा दाणत्ति तस्य दिक् पुनर्दीयते । इयरे उ इति सप्तमी षष्ठ्यर्थे इतरस्य त्वनावृत्तस्य आवृत्तस्य वा बहुदोषस्य यावज्जीवमाचार्यत्वादिका दिक् न दीयते ।
एवं ताव बहूसुं, मज्झत्थेसुं तु सो उ ववहरति ।
अह होज्ज बली इयरे, तो बेइ उ तत्थिमं वयणं ॥ १६४५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एवम् अनन्तरोदितेन प्रकारेण तावद्बहुषु मध्यस्थेषु सत्सु सोऽर्थधरो व्यवहरति । अथ भवेयुरितरे दुर्व्यवहारिणो बहुत्वेन बलीयांसः । ततस्तत्रान्यथा व्यवहारच्छेदे क्रियमाणे इदं वक्ष्यमाणं ब्रूते ॥ १६४५ ।।
तदेवाह
रागेण व दोसेण व, पक्खग्गहणेण एक्मेक्कस्स ।
कज्जमि कीरमाणे, किं अच्छति संघो मज्झत्थो ? || १६४६ ॥
For Private and Personal Use Only
गाथा
१६४३ - १६५१ अन्यायप्रतिकारः
७७४ (B)