________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ५२८ (B)
अप्पसुयत्ति य काउं, वुग्गाहेउं हरंति खुड्डादी। तेणा सपक्ख इयरे, सलिंगि गिहि अन्नहा तिविहा ॥ ९९२ ॥ द्वारं ८।।
स्तेना द्विविधाः स्वपक्षाः परपक्षाश्च। तत्रः स्वपक्षाः द्विविधाः- गीतार्थाः पार्श्वस्थादयश्च । तत्र गीतार्था इदं चिन्तयन्ति- अमी अल्पश्रुताः, अल्पश्रुतत्वाच्चागीतार्था न चागीतार्थानां क्षेत्रमस्ति। तत एतत् चिन्तयित्वा तेषां सचित्तादि गीतार्था अपहरन्ति । पार्श्वस्थादयः पुनः क्षुल्लकादीन् व्युद्ग्राहयन्ति, यथा- दुष्करा चर्याऽमीषाम्, न च दुष्करचर्यायाः सम्प्रति देश-कालौ, तस्मादत्रागच्छतेति। एवं व्युद्ग्राह्य क्षुल्लकादीन्, आदिशब्दात्तरुणादिपरिग्रहः, अपहरन्ति। परपक्षाः मिथ्यादृष्टयस्तेऽपि क्षुल्लकादीन् व्युद्ग्राह्य अपहरन्ति। अथवा त्रिविधाः स्तेनाः, तद्यथा-स्वलिङ्गाः पार्श्वस्थादयस्ते च पूर्ववत्। गृहिणस्तस्करास्ते उपधिप्रभृतीनपहरन्ति। अन्ये वा स्वलिङ्ग-गृहिभ्यो व्यतिरिक्ताः, ते च भिक्षुकादयोऽवगन्तव्याः, ते क्षुल्लकादीन् व्युद्ग्राह्यापहरन्ति ॥ ९९२॥
गाथा ९९१-९९७ द्विविधः विहारः
समाप्तकल्प
उसमाप्त
कल्परूपः
५२८ (B)
१. अन्ना वा- ला. पाठभेदः॥
For Private and Personal Use Only