________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
द्वितीय
उद्देशक: ५२८ (A)
܀܀܀܀܀
܀܀܀܀܀܀܀
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'मूलगुण उत्तरगुणे, आवन्नस्स य न याणई सोहिं । द्वारं ६ । पडिसिद्धत्ति न कुणति, गिलाणमादीण तेगिच्छं ॥ ९९१ ॥ द्वारं ७। मूलगुणविषये उत्तरगुणविषये च प्रायश्चित्तमापन्नस्य यस्य यादृशी यस्मिन्नपराधे दातव्या शोधिस्तस्य तादृशीं तस्मिन्नपराधे न जानाति । अजानानश्चाप्रायश्चित्तेऽपि प्रायश्चित्तं, प्रायश्चित्तेऽपि अतिप्रभूतं प्रायश्चित्तं दद्यादिति महदाशातनाभाग् । गतं शोधिद्वारम् ६ । अधुना ग्लानादिद्वारमाह- पडिसिद्धेत्यादि, 'प्रतिषिद्धा खलु चिकित्सा, षड्जीवनिकायविराधनापत्तेः' इतिवचनमेकान्तेनाङ्गीकुर्वन् ग्लानादीनाम्, आदिशब्दः स्वगतानेकभेदसूचकः, गाढाऽनागाढसहा- ऽसह - बाल - तरुण - ग्लानादीनां चिकित्सां न करोति । न च तद्विषयां यतनां जानाति, ततश्चिकित्साया यतनायाश्च अकरणे भूयांसो दोषाः, ते च प्रागेव प्रथमोद्देशकेऽभिहिताः ॥९९१ ॥
सम्प्रति "तेणा दुविहा व तिविहा वा " [गा. ९९३] इति व्याख्यानयति -
१. लाडनू पृ. १०० टि. १४ अ. स. प्रतिषु ९९९ गाथा स्थाने एषा गाथा- पडिसिद्धत्ति न कुणते, तेइच्छं कुणति वा विवच्चासं । असिवोम - रायदुट्टुत्ति, मद्धजतणादिगहणेणं ॥ जेभा. खंभा प्रत्योरपि प्रायः एवम् ॥
For Private and Personal Use Only
܀܀܀
गाथा ९९१-९९७ द्विविधः विहार:
समाप्तकल्प
ऽसमाप्त कल्परूपः
५२८ (A)