________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशक:
७६५ (A)
܀܀܀
www.kobatirth.org
पञ्चमो निक्षिप्तगणः कृतयोगी, कृतयतनायोगोऽपि सन् यः स्वदेशे भवत्यकार्यसेवीत्यादि । तथा चाह-जइ सेवंतीत्यादि । यदि पञ्चापि अकरणम् अकरणीयं मैथुनमित्यर्थः, सेवन्ते तदा ते पञ्चापि पञ्चानामपि आचार्यादिपदानां बाह्या भवन्ति ॥ १६१४ ॥
एतदेवाह
आयरियमाइयाणं, पंचण्हं जज्जिय अणरिहा उ ।
चउगुरु य सत्तरत्तादि जाव आरोवण धरेंते ॥ १६१५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
आचार्यादीनां पञ्चानामपि पदानां यावज्जीवमनर्हाः । चउगुरु य इत्यादि, यदि पुनस्तेषामनर्हाणामपि यो गणं निसृजति तेषामन्यतमो वा यो धारयति तदा तस्योभयस्यापि सप्तरात्रं तस्मिन् गणं धारयति आरोपणं प्रायश्चित्तं चत्वारो गुरुकाः, आदिशब्दादन्य सप्तदिनातिक्रमे । षड्लघुकः । तदनन्तरमन्यसप्तदिनानन्तरं षड्गुरुकः । तदनन्तरमन्यसप्तदिनातिक्रमे चतुर्गुरुकच्छेदः, ततः सप्तदिवसातिक्रमे षड्लघुकच्छेदः, ततोऽप्यन्यसप्तदिवसातिक्रमे षड्गुरुकच्छेदः । एतावता कालेन यदि पर्यायो न च्छिन्नस्ततस्त्रिचत्वारिंशत्तमे गणं निस्रष्टुर्धारयतश्च
For Private and Personal Use Only
सूत्र २३ गाथा
| १६११-१६१६
यतनादण्डादिः
७६५ (A)